________________ // 132 // // 133 // // 134 // // 135 // // 136 // // 137 // ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः / प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते सर्वज्ञपूर्वकं चैतनियमादेव यत्स्थितम् / आसन्नोऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यतः / यस्मादेते महात्मानो भवव्याधिभिषग्वराः यस्य येन प्रकारेण बीजाधानादिसम्भवः / सानुबन्धो भवत्येते तथा तस्य जगुस्ततः एकापि देशनैतेषां यद्वा श्रोतृविभेदतः / अचिन्त्यपुण्यसामर्थ्यात्तथा चित्रावभासते यथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः / जायतेऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता यद्वा तत्तन्नयापेक्षा तत्कालादिनियोगतः / ऋषिभ्यो देशना चित्रा तन्मूलैषापि तत्त्वतः . तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् / . युज्यते तत्प्रतिक्षेपो महानर्थकर: पर: निशानाथप्रतिक्षेपो यथान्धांनामसङ्गतः। तद्भेदपरिकल्पश्च तथैवाग्दृिशामयम् न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् / आर्यापवादस्तु पुनर्जिह्वाछेदाधिको मतः कुदृष्टा च दि वनो सन्तो भाषन्ते प्रायशः क्वचित् / निश्चितं सारवच्चैव किन्तु सत्त्वार्थकृत्सदा निश्चयोऽतीन्द्रियार्थस्य योगिज्ञानादृते न च / अतोऽप्यत्रान्धकल्पानां विवादेन न किंचन . 205 // 138 // // 139 // // 140 // // 141 // // 142 // // 143 //