________________ // 96 // // 97 // // 98 // // 99 // // 10 // .. ||101 // द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः / / निरालम्बनतां सर्वज्ञानानां साधयन्यथा सर्वं सर्वत्र चाप्नोति यदस्मादसमञ्जसम् / प्रतीतिबाधितं लोके तदनेन न किंचन अतीन्द्रियार्थसिद्ध्यर्थं यथालोचितकारिणाम् / प्रायसः शुष्कतर्कस्य न चासौ गोचरः क्वचित् गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः / चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात् एतत्प्रधानः सच्छ्राद्धः शीलवान् योगतत्परः। . जानात्यतीन्द्रियानर्थांस्तथा चाह महामतिः आगमेनानुमानेन योगाभ्यासरसेन च / त्रिधा प्रकल्पयन्प्रज्ञां लभते तत्त्वमुत्तमम् न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः / मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः सर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हि / स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् / ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा विशेषस्तु पुनस्तस्य कात्स्न्येनासर्वदर्शिभिः / सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि / निर्व्याजं तुल्य एवासौ तेनांशेनैव धीमताम् यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः / दूरासन्नादिभेदेऽपि तद्धृत्याः सर्व एव ते / / 202 // 102 // // 103 // . // 104 // // 105 // // 106 // / / 107 //