________________ // 72 // - // 73 // // 74 // // 75 // अवेद्यसंवेद्यपदमपदं परमार्थतः।। पदं तु वेद्यसंवेद्यपदमेव हि योगिनाम् / / वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् / तथाप्रवृत्तिबुद्ध्यापि स्त्र्याद्यागमविशुद्धया तत्पदं साध्ववस्थानाद्भिन्नग्रन्थ्यादिलक्षणम् / . अन्वर्थयोगतस्तन्त्रे वेसंवेद्यमुच्यते अवेद्यसंवेद्यपदं विपरीतमतो मतम् / भवाभिनन्दिविषयं समारोपसमाकुलम् क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः / अज्ञो भवाभिनन्दी स्यानिष्फलारम्भसङ्गतः इत्यसत्परिणामानुविद्धो बोधो न सुन्दरः / तत्सङ्गादेव नियमाद्विषसम्पृक्तकान्नवत् एतद्वन्तोऽत एवेह विपर्यासपरा नराः / हिताहितविवेकान्धा खिद्यन्ते साम्प्रतक्षिणः जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम् / / वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यवत्सदा / दुःखे सुखधियाकृष्टाः कच्छूकण्डूयकादिवत् // 76 // . // 77 // // 78 // // 79 // // 80 // / / 81 // भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये आत्मानं पाशयन्त्येते सदाऽसच्चेष्टया भृशम् / पापधूल्या जडाः कार्यमविचार्यैव तत्त्वतः धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु / . न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः / // 82 // . // 83 // 200