________________ // 3 // // 4 // ॥योगदृष्टिसमुच्चयः॥ नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम् / वीरं वक्ष्ये समासेन योगं तदृष्टिभेदतः इहैवेच्छादियोगानां स्वरूपमभिधीयते / योगिनामुपकाराय व्यक्तं योगप्रसङ्गतः कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि प्रमादतः / विकलो धर्मयोगो यः स इच्छायोग उच्यते शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः / श्राद्धस्य तीव्रबोधेन वचसाऽविकलस्तथा शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः / शक्त्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः / शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः सर्वथा तत्परिच्छेदात् साक्षात्कारित्वयोगतः / तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः न चैतदेवं यत्तस्मात्प्रातिभज्ञानसङ्गतः। सामर्थ्ययोगोऽवाच्योऽस्ति सर्वज्ञत्वादिसाधनम् द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः / क्षायोपशमिका धर्मा योगाः कायादिकर्म तु द्वितीयापूर्वकरणे प्रथमस्तात्त्विको भवेत् / आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः अतस्त्वयोगो योगानां योगः पर उदाहृतः। मोक्षयोजनभावेन सर्वसंन्यासलक्षण: 194 // 6 // // 7 // // 8 // // 9 // // 10 // // 11 //