________________ बठरश्च तपस्वी च शूरश्चाप्यकृतवणः / मद्यपा स्त्री सतीस्वं च राजन्न श्रद्दधाम्यहम् / // 149 // मृत्यादिवर्जिता चेह मुक्तिः कर्मपरिक्षयात् / नाकर्मणः क्वचिज्जन्म यथोक्तं पूर्वसूरिभिः // 150 // दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः / कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः // 151 // जन्माभावे जरामृत्योरभावो हेत्वभावतः / तदभावे च नि:शेषदुःखाभावः सदैव हि // 152 // परमानन्दभावश्च तदभावे हि शाश्वतः / व्याबाधाभावसंसिद्धः सिद्धानां सुखमिष्यते // 153 // सर्वद्वन्द्वविनिर्मुक्ताः सर्वेबाधाविवर्जिताः / सर्वसंसिद्धसत्कार्याः सुखं चेषां किमुच्यते // 154 // अमूर्ताः सर्वभावज्ञास्त्रैलोक्योपरिवर्तिनः / क्षीणसङ्गा महात्मानस्ते सदा सुखमासते . // 155 // एता वार्ता उपश्रुत्य भावयन् बुद्धिमान्नरः / / इहोपन्यस्तशास्त्राणां भावार्थमधिगच्छति // 156 // शतानि सप्त श्लोकानामनुष्टुप्छन्दसां कृतः / .. आचार्यहरिभद्रेण शास्त्रवार्तासमुच्चयः // 157 // कृत्वा प्रकरणमेतद्यदवाप्तं किञ्चिदिह मया कुशलम् / भवविरहबीजमनघं लभतां भव्यो जनस्तेन // 158 // यं बुद्धवा बोधयन्तः शिखिजलमरुतस्तुष्टुवुर्लोकवृत्त्यै ज्ञानं यत्रोदपादि प्रतिहतभुवनालोकवन्ध्याच्च हेतोः / सर्वप्राणिस्वभाषापरिणतिसुभगं कौशलं यस्य वाचां / तस्मिन्देवाधिदेवे भगवति भवताधीयतां भक्तिरागः // 159 // 183