________________ // 113 // // 114 // // 115 // // 116 // // 117 // // 118 // विशिष्टं वासनाजन्म बोधस्तच्च न जातुचित् / अन्यतस्तुल्यकालादेविशेषोऽन्यस्य नो यतः .. निष्पन्नत्वादसत्त्वाच्च द्वाभ्यामन्योदयो न सः / उपादानाविशेषेण तत्स्वभावं तु तत्कुतः न ह्युक्तवत्स्वहेतोस्तु स्याच्च नाशः सहेतुकः / इत्थं प्रकल्पने न्यायादत एवं न युक्तिमत् अनभ्युपगमाच्चेह तादात्म्यादिसमुद्भवाः / न दोषा नो न चान्येऽपि तद्भेदाद्धेतुभेदतः वन्ध्येतरादिको भेदो रामादीनां यथैव हि / मृषासत्यादिशब्दानां तद्वत्तद्धेतुभेदतः परमार्थंकतानत्वेऽप्युक्तदोषोपवर्णनम् / प्रत्याख्यातं हि शब्दानामिति सम्यग्विचिन्त्यताम् अन्यदोषो यदन्यस्य युक्त्या युक्तो न जातुचित् / व्यक्तवर्णं न. बुद्धानां भिक्ष्वादि शबरादिवत् ज्ञायते तद्विशेषस्तु प्रमाणेतरयोरिव / . स्वरूपालोचनादिभ्यस्तथादर्शनतो भुवि समयापेक्षणं चेह तत्क्षयोपशमं विना / तत्कर्तृत्वेन सफलं योगिनां तु न विद्यते सर्ववाचकभावत्वाच्छब्दानां चित्रशक्तितः / वाच्यस्य च तथान्यत्र नागोऽस्य समयेऽपि हि अनन्तधर्मकं वस्तु तद्धर्मः कश्चिदेव च / वाच्यो न सर्व एवेति ततश्चैतन्न बाधकम् अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः / शब्दात्प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते / // 119 // // 120 // // 121 // // 122 // // 123 // // 124 // 190