________________ // 125 // // 126 // = // 127 // = = // 128 // // 129 // = // 130 // = अन्यथा दाहसंबन्धाद्दाहं दग्धोऽभिमन्यते / अन्यथा दाहशब्देन दाहार्थः संप्रतीयते इन्द्रियग्राह्यतोऽन्योऽपिं वाच्योऽसौ न च दाहकृत् / तथाप्रतीतितो भेदाभेदसिद्धयैव तस्थितेः अपोहस्यापि वाच्यत्वमुपपत्त्या न युज्यते / असत्त्वाद्वस्तुभेदेन बुद्ध्या तस्यापि बोधतः क्षणिकाः सर्वसंस्कारा अन्यथैतद्विरुध्यते / अपोहो यन्न संस्कारो न च क्षणिक इष्यते एवं च वस्तुनस्तत्त्वं हन्त शास्त्रादनिश्चितम् / तदभावे च सुव्यक्तं तदेतत्तुषखण्डनम् बुद्धावर्णेऽपि चादोषः संस्तवेऽप्यगुणस्तथा / . आह्वानाप्रतिपत्त्यादि शब्दार्थायोगतो ध्रुवम् ज्ञानादेव नियोगेन सिद्धिमिच्छन्ति केचन / . अन्ये क्रियात एवेति द्वाभ्यामन्ये विचक्षणाः . ज्ञानं हि फलदं पुंसां न किया फलदा मता / मिथ्याज्ञानात्प्रवृत्तस्य फलप्राप्तेरसंभवात् ज्ञानहीनाश्च यल्लोके दृश्यन्ते हि महाक्रियाः / ताम्यन्तोऽतिचिरं कालं क्लेशायासपरायणाः / ज्ञानवन्तश्च तद्वीर्यात्तत्र तत्र स्वकर्मणि / .. विशिष्टफलयोगेन सुखिनोऽल्पक्रिया अपि केवलज्ञानभावे च मुक्तिरप्यन्यथा न यत् / क्रियावतोऽपि यत्नेन तस्माज्ज्ञानादसौ मता क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् // 131 // = // 132 // = // 133 // // 134 // // 135 // // 136 // 19