________________ // 101 // // 102 // // 103 // // 104 // // 105 // // 106 // परचित्तादिधर्माणां गत्युपायाभिधानतः / सर्वार्थविषयोऽप्येष इति तद्भावसंस्थितिः अन्ये त्वभिदधत्येवं युक्तिमार्गकृतश्रमाः / शब्दार्थयोर्न संबन्धो वस्तुस्थित्येह विद्यते न तादात्म्यं द्वयाभावप्रसङ्गाद्बुद्धिभेदतः / शस्त्राद्युक्तौ मुखच्छेदादिसङ्गात्समयस्थितेः अर्थासन्निधिभावेन तद्दृष्टावन्यथोक्तितः / अन्याभावनियोगाच्च न तदुत्पत्तिरप्यलम् परमार्थकतानत्वे शब्दानामनिबन्धना / न स्यात्प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु अतीताजातयोर्वापि न च स्यादनृतार्थता / वाचः कस्यचिदित्येषा बौद्धार्थविषया मता वाच्य इत्थमपोहस्तु न जाति: पारमार्थिकी। . तदयोगाद्विना भेदं तदन्येभ्यस्तथास्थितेः . सति चास्मिन् किमन्येन शब्दात्तद्वत्प्रतीतितः / तदभावे न तद्वत्त्वं तद्भ्रान्तत्वात्तथा न किम् अभ्रान्तिजातिवादे तु न दण्डाद्दण्डिवद्गतिः / तद्वत्युभयसाङ्कर्ये न भेदावोऽपि तादृशम् अन्ये त्वभिदधत्येवं वाच्यवाचकलक्षणः / अस्ति शब्दार्थयोर्योगस्तत्प्रतीत्यादितत्त्वतः नैतदृश्यविकल्पार्थेकीकरणेन भेदतः / एकप्रमात्रभावाच्च तयोस्तत्त्वाप्रसिद्धितः शब्दात्तद्वासनाबोधो विकल्पस्य ततो हि यत् / तदित्थमुच्यतेऽस्माभिर्न ततस्तदसिद्धितः // 107 // // 108 // // 109 // // 110 // // 111 // // 112 // 189