________________ // 89 // // 90 // // 91 // // 92 // // 94 // दोषाणां हासदृष्ट्येह तत्सर्वक्षयसंभवात् / तत्सिद्धौ ज्ञायते प्राज्ञैस्तस्यातिशय इत्यपि हृद्गताशेषसंशीतिनिर्णयादिप्रभावतः / तदात्वे वर्तमाने तु तद्व्यक्तार्थाविरोधतः न चास्यादर्शनेऽप्यद्य साम्राज्यस्येव नास्तिता / .. संभवो न्याययुक्तस्तु पूर्वमेव निदर्शितः प्रातिभालोचनं तावदिदानीमप्यतीन्द्रिये / सुवैद्यसंयतादीनामविसंवादि दृश्यते .. एवं तत्रापि तद्भावे न विरोधोऽस्ति कश्चन / तद्व्यक्तार्थाविरोधादौ ज्ञानभावाच्च साम्प्रतम् सर्वत्र दृष्टे संवादाददृष्टे नोपजायते / ज्ञातुर्विसंवादाशङ्का तद्वैशिष्ट्योपलब्धितः वस्तुस्थित्यापि तत्तादृग्न विसंवादकं भवेत् / यथोत्तरं तथादृष्टेरिति चेत्तन्न साम्प्रतम् सिध्येत्प्रमाणं यद्येवमप्रमाणमथेह किम् / न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि यत एकं न सत्यार्थं किंतु सर्वं यथाश्रुतम् / यत्रागमे प्रमाणं स इष्यते पण्डितैर्जनैः आत्मनोऽमी पृथक्कर्म तत्संयोगाद्भवोऽन्यथा / मुक्तिहिंसादयो मुख्यास्तन्निवृत्तिः ससाधना अतीन्द्रियार्थसंवादो विशुद्धो भावनाविधिः / यत्रेदं युज्यते सर्वं योगिव्यक्तः स आगमः - अधिकार्यपि चास्येह स्वयमज्ञो हि यः पुमान् / कथितज्ञः पुनर्धीमांस्तद्वैयर्थ्यमतोऽन्यथा / 188 // 95 // // 96 // // 97 // // 98 // // 99 // // 100 //