________________ // 77 // // 78 // // 79 // // 80 // // 81 // // 82 // अतीन्दियार्थद्रष्टा तु पुमान् कश्चिद्यदीष्यते / संभवद्विषयापि स्यादेवंभूतार्थकल्पना अपौरुषेयताप्यस्य नान्यतो ह्यवगम्यते / कर्तुरस्मरणादीनां व्यभिचारादिदोषोतः नाभ्यास एवमादीनामापि कर्ताविगानतः / स्मर्यते च विगानेन हन्तेहाप्यष्टकादिकः स्वकृताध्ययनस्यापि तद्भावो न विरुध्यते / गौरवापादनार्थं च तथा स्यादनिवेदनम् मन्त्रादीनां च सामर्थ्य शाबराणामपि स्फुटम् / प्रतीतं सर्वलोकेऽपि न चाप्यव्यभिचारि तत् वेदेऽपि पठ्यते ह्येष महात्मा तत्र तत्र यत् / स च मानमतोऽप्यस्यासत्त्वं वक्तुं न युज्यते न चाप्यतीन्द्रियार्थत्वाज्ज्यायो विषयकल्पनम् / . असाक्षाद्दर्शिनस्तत्र रूपेऽन्धस्थेव सर्वथा सर्वज्ञेन ह्यभिव्यक्तात्सर्वार्थादागमात्परा / धर्माधर्मव्यवस्थेयं युज्यते नान्यतः क्वचित् अत्रापि प्राज्ञ इत्यन्य इत्थमाह सुभाषितम् / इष्टोऽयमर्थः शक्येत ज्ञातुं. सोऽतिशयो यदि अयमेवं नवेत्यन्यदोषो निर्दोषतापि वा / . दुर्लभत्वात्प्रमाणानां दुर्बोधेत्यपरे विदुः अत्रापि ब्रुवते वृद्धाः सिद्धमव्यभिचार्यपि / लोके गुणादिविज्ञानसामान्येन महात्मना तन्नीतिप्रतिपत्त्यादेरन्यथा तन्न युक्तिमत् / विशेषज्ञानमप्येवं तद्वदभ्यासतो न किम् // 83 // // 84 // // 85 // // 86 // // 87 // // 88 // 180