________________ // 41 // // 42 // // 43 // // 44 // // 45 // || 46 // नार्थापत्त्यापि सर्वोऽर्थस्तं विनाप्युपपद्यते / प्रमाणपञ्चकावृत्तेस्तत्राभावप्रमाणता धर्माधर्मव्यवस्था तु वेदाख्यादागमात् किल / अपौरुषेयोऽसौ यस्माद्धेतुदोषविवर्जितः आह चालोकवद्वेदे सर्वसाधारणे सति / / धर्माधर्मपरिज्ञाता किमर्थं कल्पते नरः इष्टापूर्तादिभेदोऽस्मात्सर्वलोकप्रतिष्ठितः / व्यवहारप्रसिद्धयैव यथैव दिवसादयः / ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः / अन्तर्वेद्यां तु यद्दत्तमिष्टं तदभिधीयते वापीकूपतडागानि देवतायतनानि च / अन्नप्रदानमित्येतत्पूर्तमित्यभिधीयते अतोऽपि शुक्लं यवृत्तं निरीहस्य महात्मनः / ध्यानादिमोक्षफलदं श्रेयस्तदभिधीयते वर्णाश्रमव्यवस्थापि सर्वा तत्प्रभवैव हि / . अतीन्द्रियार्थद्रष्ट्रा तन्नास्ति किञ्चित्प्रयोजनम् अत्रापि ब्रुवते केचिदित्थं सर्वज्ञवादिनः / प्रमाणपञ्चकावृत्तिः कथं तत्रोपपद्यते सर्वार्थविषयं तच्चेत्प्रत्यक्षं तन्निषेधकृत् / अभावः कथमेतस्य न चेदत्राप्यदः समम् धर्मादयोऽपि चाध्यक्षा ज्ञेयभावाद्धटादिवत् / कस्यचित्सर्व एवेति नानुमानं न विद्यते आगमादपि तत्सिद्धिर्यदसौ चोदनाफलम् / प्रामाण्यं च स्वतस्तस्य नित्यत्वं च श्रुतेरिव . // 47 // // 48 // // 49 // // 50 // // 51 // 184