________________ // 29 // // 30 // // 31 // // 32 // // 33 // // 34 // संसारव्याधिना ग्रस्तस्तद्वज्ज्ञेयो नरोत्तमः / शमारोग्यलवं प्राप्य भावतस्तदुपक्रमे प्रवर्तमान एवं च यथाशक्ति स्थिराशयः / शुद्धं चारित्रमासाद्य केवलं लभते क्रमात् ततः स सर्वविद्भूत्वा भवोपग्राहिकर्मणः / ज्ञानयोगात्क्षयं कृत्वा मोक्षमाप्नोति शाश्वतम् ज्ञानयोगस्तपः शुद्धमित्यादि यदुदीरितम् / ऐदंपर्येण भावार्थस्तस्यायमभिधीयते ज्ञानयोगस्य योगीन्द्रैः परा काष्ठा प्रकीर्तिता / शैलेशीसंज्ञितं स्थैर्यं ततो मुक्तिरशंसयम् धर्मस्तच्चात्मधर्मत्वान्मुक्तिदः शुद्धिसाधनात् / अक्षयोऽप्रतिपातित्वात् सदा मुक्तौ तथास्थितेः चारित्रपरिणामस्य निवृत्तिर्न च सर्वथा / सिद्ध उक्तो यतः शास्त्रे न चरित्री न चेतरः न चावस्थानिवृत्त्येह निवृत्तिस्तस्य युज्यते / समयातिकमे यद्वत्सिद्धभावश्च तत्र वै ज्ञानयोगादतो मुक्तिरिति संम्यग्व्यवस्थितम् / तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् . अत्राप्यभिदधत्यन्ये सर्वज्ञो नैव विद्यते / / तद्ग्राहकप्रमाभावादिति न्यायानुसारिणः / / प्रत्यक्षेण प्रमाणेन सर्वज्ञो नैव गृह्यते / लिङ्गमप्यविनाभवि तेन किञ्चिन्न दृश्यते न चागमेन यदसौ विध्यादिप्रतिपादकः / अप्रत्यक्षत्वतो नैवोपमानेनापि गम्यते // 35 // // 36 // // 37 // // 38 // // 39 // // 40 // 183