________________ // 5 // // 6 // // 7 // - // 8 // - - // 9 // // 10 // सैवाथाभेदरूपापि भेदाभासनिबन्धनम् / प्रमाणमन्तरेणैतदवगन्तुं न शक्यते भावेऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः / ननु नाद्वैतमेवेति तदभावे प्रमाणकम् विद्याविद्यादिभेदाच्च स्वतन्त्रेणैव बाध्यते / तत्संशयादियोगाच्च प्रतीत्या च विचिन्त्यताम् अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये / अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः न चैतद्बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थितेः / संसारमोक्षभावाच्च तदर्थं यत्नसिद्धितः अन्यथा तत्त्वतोऽद्वैते हन्त संसारमोक्षयोः / सर्वानुष्ठानवैयर्थ्यमनिष्टं संप्रसज्यते / अन्ये पुनर्वदन्त्येवं मोक्ष एव न विद्यते / उपायाभावतः किं वा न सदा सर्वदेहिनाम् कर्मादिपरिणत्यादिसापेक्षो यद्यसौ ततः / अनादिमत्त्वात्कर्मादिपरिणत्यादिकं तथा तस्यैव चित्ररूपत्वात्तत्तथेतिं न युज्यते / उत्कृष्टाद्या स्थितिस्तस्य यज्ञातानेकशः किल अत्रापि वर्णयन्त्यन्ये विद्यते दर्शनादिकः / / उपायो मोक्षतत्त्वस्य पर: सर्वज्ञभाषितः दर्शनं मुक्तिबीजं च सम्यक्त्वं तत्त्ववेदनम् / दुःखान्तकृत् सुखारम्भः पर्यायास्तस्य कीर्तिताः अनादिभव्यभावस्य तत्स्वभावत्वयोगतः / उत्कृष्टाद्यास्वतीतासु तथाकर्मस्थितिष्वलम् // 11 // = // 12 // // 13 // = // 14 // // 15 // = // 16 // 181