________________ // 60 // नित्यैकयोगतो व्यक्तिभेदेऽप्येषा न संगता / तदिहेति प्रसङ्गेन तदेवेदमयोगतः सादृश्याज्ञानतो न्याय्या न विभ्रमबलादपि / एतद्द्वयाग्रहे युक्तं न च सादृश्यकल्पनम् न च भ्रान्तापि सद्बाधा भावादेव कदाचन / योगिप्रत्ययतद्भावे प्रमाणं नास्ति किञ्चन नाना योगी विजानात्यनाना नेत्यत्र न प्रमा / देशनाया विनेयानुगुण्येनापि प्रवृत्तितः या च लूनपुनर्जातनखकेशतृणादिषु / ' इयं संलक्ष्यते सापि तदाभासा न सैव हि प्रत्यक्षाभासभावेऽपि नाप्रमाणं यथैव हि / प्रत्यक्षं तद्वदेवेयं प्रमाणमवगम्यताम् मतिज्ञानविकल्पत्वान्न चानिष्टिरियं यतः / एतद्बालात्ततः सिद्धं नित्यानित्यादि वस्तुनः // 65 // // 5 // // 66 // // 1 // // 2 // अष्टमः स्तबकः अन्ये त्वद्वैतमिच्छन्ति सद्ब्रह्मादिव्यपेक्षया / सतो यद्भेदकं नान्यत्तच्च तन्मात्रमेव हि यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः / संकीर्णमिव मात्राभिभिन्नाभिरभिमन्यते ... तथेदममलं ब्रह्म निर्विकल्पमविद्यया / कलुषत्वमिवापन्नं भेदरूपं प्रकाशते अत्राप्यन्ये वदन्त्येवमविद्या न सतः पृथक् / / तच्च तन्मात्रमेवेति भेदाभासोऽनिबन्धनः 180 // 3 // // 4 //