________________ // 36 // - // 37 // : // 38 // . // 39 // // 40 // - // 41 // मृद्रव्यं यन्न पिण्डादिधर्मान्तरविवर्जितम् / यद्वा तेन विनिर्मुक्तं केवलं गम्यते क्वचित् ततोऽसत्तत्तथान्यायादेकं चोभयसिद्धितः / अन्यत्रातो विरोधस्तदभावापत्तिलक्षणः / जात्यन्तरात्मके चास्मिन्नावस्थादिदूषणम् / . नियतत्वाद्विविक्तस्य ,भेदादेश्चाप्यसंभवात्। नाभेदो भेदरहितो भेदो वाऽभेदवर्जितः / केवलोऽस्ति यतस्तेन कुतस्तत्र विकल्पनम् येनाकारेण भेदः किं तेनासावेव किं द्वयम् / असत्त्वात्केवलस्येह सतश्च कथितत्वतः यतश्च तत्प्रमाणेन गम्यते ह्युभयात्मकम् / अतोऽपि जातिमात्रं तदनवस्थादिकल्पनम् एवं ह्युभयदोषादिदोषा अपि न दूषणम् / सम्यग्जात्यन्तरत्वेन भेदाभेदप्रसिद्धितः .. एतेनैतत्प्रतिक्षिप्तं यदुक्तं पूर्ववादिभिः / विहायानुभवं महाज्जातियुक्त्यनुसारिभिः द्रव्यपर्याययोर्भेदे नैकस्योभयरूपता / अभेदेऽन्यतरस्थाननिवृत्ती चिन्त्यतां कथम् यन्निवृत्तौ न यस्येह निवृत्तिस्तत्ततो यतः / भिन्नं नियमतो दृष्टं यथा कर्कः क्रमेलकात् निवर्तते च पर्यायो न तु द्रव्यं ततो न सः। अभिन्नो द्रव्यतोऽभेदेऽनिवृत्तिस्तत्स्वरूपवत् प्रतिक्षिप्तं च यद्भेदाभेदपक्षोऽन्य एव हि। भेदाभेदविकल्पाभ्यां हन्त जात्यन्तरात्मकः / // 42 // // 43 // // 44 // // 45 // . // 46 // // 47 // 108