________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // अनेकान्तत एवातः सम्यग्मानव्यवस्थितेः / स्याद्वादिनो नियोगेन युज्यते निश्चयः परम् एतेन सर्वमेवेति यदुक्तं तन्निराकृतम् / शिष्यव्युत्पत्तये किंचित्तथाप्यपरमुच्यते संसारी चेत्स एवेति कथं मुक्तस्य संभवः / मुक्तोऽपि चेत्स एवेति व्यपदेशोऽनिबन्धनः संसाराद्विप्रमुक्तो यन्मुक्त इत्यभिधीयते / नैतत्तस्यैव तद्भावमन्तरेणोपपद्यते तस्यैव च तथाभावे तन्निवृत्तीतरात्मकम् / द्रव्यपर्यायवद्वस्तु बलादेव प्रसिध्यति लज्जते बाल्यचरितैर्बाल एव न चापि यत् / युवा न लज्जते चान्यस्तैरायत्यैव चेष्टते युवैव न च वृद्धोऽपि नान्यार्थं चेष्टनं च तत् / . अन्वयादिमयं वस्तु तदभावोऽन्यथा भवेत् . अन्वयो व्यतिरेकश्च द्रव्यपर्यायसंज्ञितौ / / अन्योन्यव्याप्तितो भेदाभेदवृत्त्येव वस्तु तौ नान्योऽन्यव्याप्तिरैकान्तभेदेऽभेदे च युज्यते / अतिप्रसङ्गादैक्याच्च शब्दार्थीनुपपत्तितः . अन्योऽन्यमिति यद्भेदं व्याप्तिश्चाह विपर्ययम् / भेदाभेदे द्वयोस्तस्मादन्योऽन्यव्याप्तिसंभवः एवं न्यायाविरुद्धेऽस्मिन् विरोधोद्भावनं नृणाम् / व्यसनं वा जडत्वं वा प्रकाशयति केवलम् न्यायात् खलु विरोधो यः स विरोध इहोच्यते / यद्वदेकान्तभेदादौ तयोरेवाप्रसिद्धितः // 30 // // 31 // // 32 // // 33 // // 34 // // 35 // 177