________________ - // 13 // // 14 // // 15 // // 16 // // 17 // उत्पादोऽभूतभवनं स्वहेत्वन्तरधर्मकम् / तथाप्रतीतियोगेन विनाशस्तद्विपर्ययः तथैतदुभयाधारस्वभावे ध्रौव्यमित्यपि / अन्यथा त्रितयाभाव एकदैकत्र किं न तत् / एकत्रैवैकदैवैतदित्थं त्रयमपि स्थितम् / न्याय्यं भिन्ननिमित्तत्वात्तदभेदे न युज्यते . इष्यते च परैर्मोहात्तत्क्षणस्थितिधर्मिणि / / अभावेऽन्यतमस्यापि तत्र तत्त्वं न यद्भवेत् | सपनवद्भवत् भावमानं तदिष्टं चेत्तदित्थं निविशेषणम् / क्षणस्थितिस्वभावं तु न ह्युत्पादव्ययौ विना तदित्थंभूतमेवेति द्राग्नभस्तो न जातुचित् / भूत्वाभावश्च नाशोऽपि तदेवेति न लौकिकम् वासनाहेतुकं यच्च शोकादि परिकीर्तितम् / तदयुक्तं यतश्चित्रा सा न जात्वनिबन्धना सदा भावेतरापत्तिरेकभावाच्च वस्तुनः / / तद्भावेऽतिप्रसङ्गादिनियमात् संप्रसज्यते न मानं मानमेवेति सर्वथा निश्चयश्च यः / उक्तो न युज्यते सोऽपि यदेकान्तनिबन्धनः मानं चेन्मानमेवेति प्रत्यक्षं लैङ्गिकं न तु / तत्तच्चेन्मानमेवेति स्यात्तद्भावाहते कथम् न स्वसत्त्वं परासत्त्वं तदसत्त्वविरोधतः / स्वसत्त्वासत्त्ववन्न्यायान्न च नास्त्येव तत्र तत् परिकल्पितमेतच्चेन्नन्वित्थं तत्त्वतो न तत् / ततः क इह दोषश्चेन्ननु तद्भावसंगतिः // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // 106