________________ = // 2 // = // 4 = // 5 // - सप्तमः स्तबकः अन्ये त्वाहुरनाद्येव जीवाजीवात्मकं जगत् / सदुत्पादव्ययघ्रौव्ययुक्तं शास्त्रकृतश्रमाः घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् / शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः / अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकम् अत्राप्यभिदधत्यन्ये विरुद्धं हि मिथस्त्रयम् / एकत्रैवैकदा नैतद् घट प्राञ्चति जातुचित् उत्पादोऽभूतभवनं विनाशस्तद्विपर्ययः / ध्रौव्यं चोभयशून्यं यदेकदैकत्र तत्कथम् शोकप्रमोदमाध्यस्थ्यमुक्तं यच्चात्र साधनम् / . तदप्यसाम्प्रतं यत्तद्वासनाहेतुकं. मतम् किं च स्याद्वादिनो नैव युज्यते निश्चयः क्वचित् / स्वतन्त्रापेक्षया तस्य न मानं मानमेव यत् संसार्यपि न संसारी मुक्तोऽपि न स एव हि / तदतद्रूपभावेन सर्वमेवाव्यवस्थितम् . त आहुर्मुकुटोत्पादो न घटनाशधर्मकः / . स्वर्णान्न चान्य एवेति न विरुद्धं मिथस्त्रयम् न चोत्पादव्ययौ न. स्तो ध्रौव्यवत्तद्धिया गतेः / नास्तित्वे तु. तयोध्रौव्यं तत्त्वतोऽस्तीति न प्रमा न नास्ति ध्रौव्यमप्येवमविगानेन तद्गते; / अस्याश्च भ्रान्ततायां न जगत्यभ्रान्ततागतिः // 6 // = // 8 = // // 9 // // 10 // // 11 // = 105