________________ // 53 // // 54 // // 55 // // 56 // - // 57 // न चैतदपि न न्याय्यं यतो बुद्धो महामुनिः / सुवैद्यवद्विना कार्यं द्रव्यासत्यं न भाषते ब्रुवते शून्यमन्ये तु सर्वमेव विचक्षणाः / न नित्यं नाप्यनित्यं यद्वस्तु युक्त्योपपद्यते नित्यमर्थक्रियाभावात्क्रमाक्रमविरोधतः / अनित्यमपि चोत्पादव्ययाभावान्न जातुचित् उत्पादव्ययबुद्धिश्च 'भ्रान्तानन्दादिकारणम् / कुमार्याः स्वप्नवज्ज्ञेया पुत्रजन्मादिबुद्धिवत् अत्राप्यभिदधत्यन्ये किमित्थं तत्त्वसाधनम् / प्रमाणं विद्यते किंचिदाहोस्विच्छून्यमेव हि शून्यं चेत्सुस्थितं तत्त्वमस्ति चेच्छून्यता कथम् / तस्यैव ननु सद्भावादिति सम्यग्विचिन्त्यताम् प्रमाणमन्तरेणापि स्यादेवं तत्त्वसंस्थितिः / अन्यथा नेति सुव्यक्तमिदमीश्वरचेष्टितम् .. उक्तं विहाय मानं चेच्छून्यतान्यस्य वस्तुनः / शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः तस्याप्यशून्यतायां च प्राश्निकानां बहुत्वतः / / प्रभूता शून्यतापत्तिरनिष्टा संप्रसज्यते यावतामस्ति तन्मानं प्रतिपाद्यास्तथा च ये / सन्ति ते सर्व एवेति प्रभूतानामशून्यता एवं च शून्यवादोऽपि तद्विनेयानुगुण्यतः / अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना // 58 // // 59 // // 60 // // 61 // // 62 // 104