________________ // 41 // // 42 // // 43 // // 44 // // 45 // // 46 // एतदप्यसदेवेति सदृशो भिन्न एव यत् / भेदाग्रहे कथं तस्य तत्स्वभावत्वतो ग्रहः / तदर्थनियतोऽसौ यद्भेदमन्याग्रहाद्धि तत् / न गृह्णातीति चेत्तुल्यः सोऽपरेण कुतो गतिः तथागतेरभावे च वचस्तुच्छमिदं ननु / सदृशेनावरुद्धत्वात्तद्ग्रहाद्धि तदग्रहः भावे चास्या बलादेकमनेकग्रहणात्मकम् / अन्वयि ज्ञानमेष्टव्यं सर्वं तत्क्षणिकं कुतः ज्ञानेन गृह्यते चार्थो न चापि परदर्शने / तदभावे नु तद्भावात्कदाचिदपि तत्त्वतः ग्रहणेऽपि यदा ज्ञानमुदेत्युत्पत्त्यनन्तरम् / तदा तत्तस्य जानाति क्षणिकत्वं कथं ननु तस्यैव तत्स्वभावत्वात् स्वात्मनैव तदुद्भवात् / यथा नीलादिताद्रूप्यान्नैतन्मिथ्यात्वसंशयात् . न चापि स्वानुमानेन धर्मभेदस्य संभवात् / लिङ्गधर्मातिपाताच्च तत्स्वभावाद्ययोगतः नित्यस्यार्थक्रियायोगोऽप्येवं युक्त्या न गम्यते / सर्वमेवाविशेषेण विज्ञानं क्षणिकं यतः तथा चित्रस्वभावत्त्वान्न चार्थस्य न युज्यते / अर्थक्रिया ननु न्यायात्क्रमाक्रमबिभावनी अन्ये त्वभिदधत्येवमेतदास्थानिवृत्तये / क्षणिकं सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः विज्ञानमात्रमप्येवं बाह्यसङ्गनिवृत्तये / विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनार्हतः .. . 173 // 47 // // 48 // // 49 // // 50 // // 51 // // 52 //