________________ भूतिर्येषां क्रिया सोक्ता न चासौं युज्यते क्वचित् / कर्तृभोक्तृस्वभावत्वविरोधादिति चिन्त्यताम् / // 29 // न चातीतस्य सामर्थ्यं तस्यामिति निदर्शितम् / न चान्यो लौकिकः कश्चिच्छब्दार्थोऽत्रेत्ययुक्तिमत् / - // 30 // परिणामोऽपि नो हेतुः क्षणिकत्वप्रसाधने / सर्वदैवान्यथात्वेऽपि तथाभावोपलब्धित: // 31 // नार्थान्तरगमो यस्मात्सर्वथैव न चागमः / परिणामः प्रमासिद्ध इष्टश्च खलु पण्डितैः // 32 // यच्चेदमुच्यते ब्रूमोऽतादवस्थ्यमनित्यताम् / एतत्तदेव न भवत्यतोऽन्यत्वे ध्रुवोऽन्वयः // 33 // तदेव न भवत्येतत्तच्चेन्न भवंतीति च / विरुद्धं हन्त किं चान्यदादिमत्तत्प्रसज्यते // 34 // क्षीरनाशश्च दध्येव यदृष्टं गोरसान्वितम् / न तु तैलाद्यत; सिद्धः परिणामोऽन्वयावहः // 35 // नासत्सज्जायते जातु सच्चासत्सर्वथैव हि / शक्त्यभावादिति व्याप्तेः सत्स्वभावत्वहानित: // 36 // नित्येतरदतो न्यायात्तत्तथाभावतो हि तत् / प्रतीतिसचिवात्सम्यक् परिणामेन गम्यते // 37 // अन्ते क्षयेक्षणं चाद्यक्षणक्षयप्रसाधनम् / तस्यैव तत्स्वभावत्वाधुज्यते न कदाचन // 38 // आदौ क्षयस्वभावे च तत्रान्ते दर्शनं कथम् / तुल्यापरापरोत्पत्तिविप्रलम्भाद्यथोदितम् // 39 // अन्ते क्षयेक्षणादादौ क्षयोऽदृष्टोऽनुमीयते / / / सदृशेनावरुद्धत्वात्तद्ग्रहाद्धि तदग्रहः // 40 // 12