________________ // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // संक्लेशो यद्गुणोत्पादः स चाक्लिष्टान्न केवलात् / न चान्यसचिवस्यापि तस्यानतिशयात्ततः तं प्राप्य तत्स्वभावत्वात्ततः स इति चेन्ननु / नाशहेतुमवाप्यैवं नाशपक्षेऽपि न क्षतिः अन्ये तु जन्यमाश्रित्य सत्स्वभावाद्यपेक्षया / एवमाहुरहेतुत्वं जनकस्यापि सर्वथा न सत्स्वभावजनकस्तद्वैफल्यप्रसङ्गतः / जन्मायोगादिदोषाच्च नेतरस्यापि युज्यते न चोभयादिभावस्य विरोधासंभवादितः / स्वनिवृत्त्यादिभावादौ कार्याभावादितोऽपरे न चाध्यक्षविरुद्धत्वं जनकत्वस्य मानतः / असिद्धरत्र नीत्या तद्व्यवहारनिषेधतः . मानाभावे परेणापि व्यवहारो निषिध्यते / सज्ज्ञानशब्दविषयस्तद्वदत्रापि दृश्यताम् अर्थक्रियासमर्थत्वं क्षणिके यच्च गीयते / उत्पत्त्यनन्तरं नाशाद्विज्ञेयं तदयुक्तिमत् अर्थक्रिया यतोऽसौ वा तदन्या वा द्वयी गतिः / तत्त्वे न तत्र सामर्थ्यमन्यतस्तत्समुद्भवात् / न स्वसन्धारणे न्यायाज्जन्मानन्तरनाशतः / . . न च नाशेऽपि सद्युक्त्या तद्धेतोस्तत्समुद्भवात् अन्यत्वेऽन्यस्य सामर्थ्यमन्यत्रेति न सङ्गतम् / ततोऽन्यभाव एवैतन्नासौ न्याय्यो दलं विना नासत्सज्जायते यस्मादन्यसत्त्वस्थितावपि / तस्यैव तु तथाभावे नन्वसिद्धोऽन्वयः कथम् . 171 // 23 // // 24 // // 25 // // 26 // // 27 // // 28 //