________________ // 5 // 7 // // 9 // - // 10 // न पुनः क्रियते किंचित्तेनास्य सहकारिणा / समानकालभावित्वात्तथा चोक्तमिदं तव उपकारी विरोधी च सहकारी च यो मतः / प्रबन्धापेक्षया सर्वो नैककाले कथञ्चन सहकारिकृतो हेतोविशेषो नास्ति यद्यपि / फलस्य तु विशेषोऽस्ति तत्कृतातिशयाप्तितः न चास्यातत्स्वभावत्वे सफलस्यापि युज्यते / सभागक्षणजन्माप्तेस्तथाविधतदन्यवत् / अस्थानपक्षपातश्च हेतोरनुपकारिणः / . अपेक्षायां नियुक्ते यत्कार्यमेतद्बथोदितम् यस्मात्तस्याप्यदस्तुल्यं विशिष्टफलसाधकम् / भावहेतुं समाश्रित्य ननु न्यायान्निदर्शितम् एवं च व्यर्थमेवेह व्यतिरिक्तादिचिन्तनम् / नाश्यमाश्रित्य नाशस्य क्रियते यद्विचक्षणैः . किञ्च निर्हेतुके नाशे हिंसकत्वं न युज्यते / व्यापाद्यते सदा यस्मान्न कश्चित्केनचित्क्वचित् कारणत्वात् स संतानविशेषप्रभवस्य चेत् / हिंसकस्तत्र संतानसमुत्पत्तेरसंभवात् सांवृतत्वाव्ययोत्पादौ संतानस्य खपुष्पवत् / न स्तस्तदधर्मत्वाच्च हेतुस्तत्संभवे कुतः विसभागक्षणस्याथ जनको हिंसको न तत् / स्वतोऽपि तस्य तत्प्राप्तेर्जनकत्वाविशेषतः हन्म्येनमिति संक्लेशाद्धिंसकश्चेत्प्रकल्प्यते / नैव त्वन्नीतितो यस्मादयमेव न युज्यते 170 // 11 // // 12 // // 13 // // 14 // // 16 //