________________ // 33 // // 34 // // 35 // मुक्तौ च तस्य भेदेन भावः स्यात्पटशुद्धिवत् / ततो बाह्यार्थतासिद्धिरनिष्टा संप्रसज्यते / प्रकृत्यैव तथाभूतं तदेव क्लिष्टतेति चेत् / तदन्यूनातिरिक्तत्वे केन युक्तिविचिन्त्यताम् असत्यपि च या बाह्ये ग्राह्यग्राहकलक्षणे / द्विचन्द्रभ्रान्तिवद्धान्तिरियं वः क्लिष्टतेति चेत् अस्त्वेतत्किं तु तद्धेतुभिन्नहेत्वन्तरोद्भवा / इयं स्यात्तिमिराभावे न हीन्दुद्वयदर्शनम् न चासदेव तद्धेतुर्बोधमात्रं न वापि तत् / सदैव क्लिष्टतापत्तिरिति मुक्तिर्न युज्यते / मुक्त्यभावे च सर्वैव ननु चिन्ता निरर्थिका / भावेऽपि सर्वदा तस्याः सम्यगेतद्विचिन्त्यताम् विज्ञानमात्रवादोऽयं नेत्थं युक्त्योपपद्यते / प्राज्ञस्याभिनिवेशो न तस्मादत्रापि युज्यते . // 37 // // 38 // // 39 // = षष्ठः स्तबकः यच्चोक्तं पूर्वमत्रैव क्षणिकत्वप्रसाधकम् / . नाशहेतोरयोगादि तदिदानी परीक्ष्यते हेतोः स्यान्नश्वरो भावोऽनश्वरो वा विकल्पयन् / नाशहेतोरयोगित्वमुच्यते तन्न युक्तिमत् हेतुं प्रतीत्य यदसौ तथा नश्वर इष्यते / यथैव भवतो हेतुर्विशिष्टफलसाधकः तथास्वभाव एवासौ स्वहेतोरेव जायते / सहकारिणमासाद्य यस्तथाविधकार्यकृत् // 2 // = // 4 // 198