________________ // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // उच्यते साम्प्रतमदः स्वयमेव विचिन्त्यताम् / . प्रमाणाभावतस्तत्र यद्येतदुपपद्यते . . एवं न यत्तदात्मानमपि हन्त प्रकाशयेत् / अतस्तदित्थं नो युक्तमन्यथा न व्यवस्थितिः ... व्यवस्थितौ च तत्त्वस्य तथाभावप्रकाशकम् / ध्रुवं यतस्ततोऽकर्मकत्वमस्य कथं भवेत् / व्यवस्थापकमस्यैवं भ्रान्तं चैतत्तु भावतः / तथेत्यभ्रान्तमत्रापि ननु मानं न विद्यते भ्रान्ताच्चाभ्रान्तिरूपा न युक्तियुक्त्या व्यवस्थितिः / दृष्टा तैमिरिकादीनामक्षादाविति चेन्न तत् नाक्षादिदोषविज्ञानं तदन्यभ्रान्तिवद्यतः / भ्रान्तं तस्य तथाभावे भ्रान्तस्याभ्रान्तता भवेत् न च प्रकाशमानं तु लोके क्वचिदकर्मकम् / दीपादौ युज्यते न्यायादतश्चैतदपार्थकम् / दृष्टान्तमात्रतः सिद्धिस्तदत्यन्तविधर्मिणः / न च साध्यस्य यत्तेन शब्दमात्रमसावपि किं च विज्ञानमात्रत्वे न संसारापवर्गयोः / विशेषो विद्यते कश्चित्तथा चैतवृथोदितम् चित्तमेव हि संसारो रागादिक्लेशवासितम् / तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते रागादिक्लेशवर्गो यन्न विज्ञानात्पृथग्मतः / एकान्तकस्वभावे च तस्मिन् किं केन वासितम् . क्लिष्टं विज्ञानमेवासौ क्लिष्टता तत्र यद्वशात् / नील्यादिवदसौ वस्तु तद्वदेव प्रसज्यते 168 // 27 // // 28 // // 29 // // 30 // // 31 // // 32 //