________________ - // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // अतद्ग्रहणभावैश्च यदि नाम न गृह्यते / तत एतावता सत्त्वं न तस्यातिप्रसङ्गतः .. विज्ञानं यत्स्वसंवेद्यं न त्वर्थो युक्तियोगतः / अतस्तद्वेदने तस्य ग्रहणं नोपपद्यते एवं चाग्रहणादेव तदभावोऽवसीयते / अतः किमुच्यते मानमर्थाभावे न विद्यते अर्थग्रहणरूपं यत्तत्स्वसंवेद्यमिष्यते / तद्वेदने ग्रहस्तस्य ततः किं नोपपद्यते घटादिज्ञानमित्यादिसंवित्तेस्तत्प्रवृत्तितः / प्राप्तेरर्थक्रियायोगात् स्मृतेः कौतुकभावतः ज्ञानमात्रे तु विज्ञानं ज्ञानमेवेत्यदो भवेत् / प्रवृत्त्यादि ततो न स्यात्प्रसिद्ध लोकशास्त्रयोः / तदन्यग्रहणे चास्य प्रद्वेषोऽर्थेनिबन्धनः / ज्ञानान्तरेऽपि सदृशं तदसंवेदनादि यत्। युक्त्ययोगश्च योऽर्थस्य गीयते जातिवादतः / ग्राह्यादिभावद्वारेण ज्ञानवादेऽप्यसौ समः नैकान्तग्राह्यभावं तद्ग्राहकाभावतो भुवि / ग्राहकैकान्तभावं तु ग्राह्याभावादसंगतम् / विरोधान्नोभयाकारमन्यथा तदसद्भवेत् / निःस्वभावत्वतस्तस्य सत्तैवं युज्यते कथम् प्रकाशैकस्वभावं हि विज्ञानं तत्त्वंतो मतम् / अकर्मकं तथा चैतत्स्वयमेव प्रकाशते यथास्ते शेत इत्यादौ विना कर्म स एव हि / तथोच्यते जगत्यस्मिंस्तथा ज्ञानमपीष्यताम् 10 // 15 // // 16 // // 17 // // 18 // // 19 // // 20 //