________________ // 135 // नैकोऽपि यद्विविज्ञेय एकैकेनैव वेदनात् / सामान्यापेक्षयैतच्चेन्न तत्सत्त्वप्रसङ्गतः सत्त्वेऽपि नेन्द्रियज्ञानं हन्त तद्गोचरं मतम् / द्विविज्ञेयत्वमित्येवं क्षणभेदे न तत्त्वतः सर्वमेतेन विक्षिप्तं क्षणिकत्वप्रसाधनम् / तथाप्यूर्वं विशेषेण किञ्चित्तत्रापि वक्ष्यते // 136 // // 137 // // 2 // // 3 // पञ्चमः स्तबकः विज्ञानमात्रवादोऽपि न सम्यगुपपद्यते / . मानं यत्तत्त्वतः किञ्चिदर्थाभावे न विद्यते न प्रत्यक्षं यतो भावालम्बनं न तदिष्यते / नानुमानं तथाभूतसल्लिङ्गानुपलब्धित: उपलब्धिलक्षणप्राप्तोऽर्थो येनोपलभ्यते / ततश्चानुपलब्ध्यैव तदभावोऽवसीयते उपलब्धिलक्षणप्राप्तिस्तद्धत्वन्तरसंहतिः / तेषां च तत्स्वभावत्वे तस्यासिद्धिः कथं भवेत् सहार्थेन तज्जननस्वभावानीति चेन्ननु / जनयत्येव सत्येवमन्यथा तत्स्वभावता योग्यतामधिकृत्याथ तत्स्वभावत्वकल्पना / हन्तवमपि सिद्धोऽर्थः कदाचिदुपलब्धितः अन्यथा योग्यता तेषां कथं युक्त्योपपद्यते / न हि लोकेऽश्वमाषादेः सिद्धा पक्त्यादियोग्यता पराभिप्रायतो ह्येतदेवं चेदुच्यते न यत् / ... उपलब्धिलक्षणप्राप्तोऽर्थस्तस्योपलभ्यते // 4 // // 6 // // 8 // 16