________________ // 99 // // 100 // // 101 // // 102 // // 103 // // 104 // समनन्तरवैकल्यं तन्नेत्यनुपपत्तिकम् / तुल्ययोरपि तद्भावे हन्त क्वचिददर्शनात् / न तयोस्तुल्यतैकस्य यस्मात्कारणकारणम् / ओघात्तद्धेतुविषयं नन्वेवमितरस्य च / यः केवलानलग्राहिज्ञानकारणकारणः / सोऽप्येवं न च तद्धेतोस्तज्ज्ञानादपि तद्गतिः तज्ज्ञानं यन्न वै धूमज्ञानस्य समनन्तरः / तथाभूदित्यतो नेह तज्ज्ञानादपि तद्गतिः तथेति हन्त कोऽन्वर्थस्तत्तथाभावतो यदि / इतरत्रैकमेवेत्थं ज्ञानं तद्ग्राहि भाव्यताम् तदभावेऽन्यथाभावस्तस्य सोऽस्यापि विद्यते / अनन्तरचिरातीतं तत्पुनर्वस्तुतः समम् . अग्निज्ञानजमेतेन धूमज्ञानं स्वभावतः / तथाविकल्पकृन्नान्यदिति प्रत्युक्तमिष्यताम् . अथ कथञ्चिदेकेन तयोरग्रहणे सति / तथाप्रतीतितो न्याय्यं न तथाभावकल्पनम् प्रत्यक्षानुपलम्भाभ्यां हन्तैवं साध्यते कथम् / कार्यकारणता तस्मात्तद्भावादेरनिश्चयात् . न पूर्वमुत्तरं चेह तदन्याग्रहणाद्धृवम् / . . गृह्यतेऽत इदं नातो नन्वतीन्द्रियदर्शनम् विकल्पोऽपि तथा न्यायाधुज्यते न ह्यनीदृशः / तत्संस्कारप्रसूतत्वात् क्षणिकत्वाच्च सर्वथा नेत्थं बोधान्वयाभावे घटते तद्विनिश्चयः / माध्यस्थ्यमवलम्ब्यैतच्चिन्त्यतां स्वयमेव तु .. . 173 // 105 // / सात / // 106 // // 107 // // 108 // // 109 // // 110 //