________________ अग्न्यादिज्ञानमेवेह न धूमज्ञानतां यतः / व्रजत्याकारभेदेन कुतो बोधान्वयस्ततः || 111 // तदाकारपरित्यागात्तस्याकारांतरस्थितिः / बोधान्वयप्रदीधैंकाध्यवसायप्रवर्तकः - // 112 // स्वसंवेदनसिद्धत्वान्न च भ्रान्तोऽयमित्यपि / कल्पना युज्यते युक्त्या सर्वभ्रान्तिप्रसङ्गतः __ / | 113 // प्रदीर्घाध्यवसायेन नश्वरादिविनिश्चयः / अस्य च भ्रान्ततायां यत्तत्तथेति न युक्तिमत् . // 114 // तस्मादवश्यमेष्टव्या विकल्पस्यापि कस्यचित् / येन तेन प्रकारेण सर्वथाऽभ्रान्तरूपता // 115 // सत्यामस्यां स्थितोऽस्माकमुक्तवत्र्याययोगतः / बोधान्वयो दलोत्पत्त्यभावाच्चातिप्रसङ्गतः अन्यादृशपदार्थेभ्यः स्वयमन्यादृशोप्ययम् / यतश्चेष्टस्ततो नास्मात्तत्रासंदिग्धनिश्चयः // 117 // तत्तज्जननभावत्वे ध्रुवं तद्भावसंगतिः / . तस्यैव भावो नान्यो यज्जन्याच्च जननं तथा // 118 // एवं तज्जन्यभावत्वेऽप्येषा भाव्या विचक्षणैः / तदेव हि यतो भाव: स चेतरसमाश्रयः // 119 // इत्येवमन्वयापत्तिः शब्दार्थादेव जायते / अन्यथा कल्पनं चास्य सर्वथा न्यायबाधितम् // 120 // तद्रूपशक्तिशून्यं तत्कार्यं कार्यन्तरं यथा / व्यापारोऽपि न तस्यापि नापेक्षा सत्त्वतः क्वचित् . // 121 // तथापि तु तयोरेव तत्स्वभावत्वकल्पनम् / * अन्यत्रापि समानत्वात् केवलं ध्यान्ध्यसूचकम् . // 122 // . 14