________________ // 87 // // 88 // // 89 // // 90 // // 91 // // 92 // नानात्वाबाधनाच्चेह कुतः स्वकृतवेदनम् / सत्यप्यस्मिन् मिथोऽत्यन्ततद्भेदादिति चिन्त्यताम् वास्यवासकभावाच्चेन्नैतत्तस्याप्यसंभवात् / असंभवः कथं न्वस्य विकल्पानुपपत्तितः वासकाद्वासना भिन्ना अभिन्ना वा भवेद्यदि / . भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्यसौ . अथाभिन्ना न संक्रान्तिस्तस्या वासकरूपवत् / वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रजायते असत्यामपि संक्रान्तौ वासयत्येव चेदसौ / अतिप्रसङ्गः स्यादेवं स च न्यायबहिष्कृतः वास्यवासकभावश्च न हेतुफलभावतः / तत्त्वतोऽन्य इति न्यायात्स चायुक्तो 'निदर्शितः तत्तज्जननस्वभावं जन्यभावं तथापरम् / अतः स्वभावनियमान्नायुक्तः स. कदाचन उभयोर्ग्रहणाभावे न तथाभावकल्पनम् / / तयोाय्यं न चैकेन द्वयोर्ग्रहणमस्ति वः एकमर्थं विजानाति न विज्ञानद्वयं यथा / विजानाति न विज्ञानमेकमर्थद्वयं तथा वस्तुस्थित्या तयोस्तत्त्व एकेनापि तथाग्रहात् / नो बाधकं न चैकेन द्वयोर्ग्रहणमस्त्यदः तथाग्रहस्तयोर्नेतरेतरग्रहणात्मकः / कदाचिदपि युक्तो यदतः कथमबाधकम् तथाग्रहे च सर्वत्राविनाभावग्रहं विना। .. न धूमादिग्रहादेव ह्यनलादिगतिः कथम् // 94 // // 95 // // 96 // // 97 // // 98 // 12