________________ // 75 // // 76 // // 77 // // 78 // // 79 // // 80 // अत्र चोक्तं न चाप्येषां तत्स्वभावत्वकल्पना / साध्वीत्यतिप्रसङ्गादेरन्यथाप्युक्तिसंभवात् अथान्यत्रापि सामर्थ्य रूपादीनां प्रकल्प्यते / न तदेव तदित्येवं नाना चैकत्र तत्कुतः सामग्रीभेदतो यश्च कार्यभेदः प्रगीयते / नानाकार्यसमुत्पाद एकस्याः सोऽपि बाध्यते उपादानादिभेदेन न चैकस्यास्तु संगता / युक्त्या विचार्यमाणेह तदनेकत्वकल्पना रूपं येन स्वभावेन रूपोपादानकारणम् / निमित्तकारणं ज्ञाने तत्तेनान्येन वा भवेत् यदि तेनैव विज्ञानं बोधरूपं न युज्यते / अथान्येन बलाद्रूपं द्विस्वभावं प्रसज्यते अबुद्धिजनकव्यावृत्त्या चेबुद्धिप्रसाधकः / . रूपक्षणो ह्यबुद्धित्वात् कथं रूपस्य साधकः. स हि व्यावृत्तिभेदेन रूपादिजनको ननु / . उच्यते व्यवहारार्थमेकरूपोऽपि तत्त्वतः अगन्धजननव्यावृत्त्यायं कस्मान्न गन्धकृत् / उच्यते तदभावाच्चेद्भावोऽन्यस्याः प्रसज्यते एवं व्यावृत्तिभेदेऽपि तस्यानेकस्वभावता / . बलादापद्यते सा चायुक्ताभ्युपगमक्षते: विभिन्नकार्यजननस्वभावाश्चक्षुरादयः / यदि ज्ञानेऽपि भेदः स्यान्न चेतेंदो न युज्यते सामग्र्यपेक्षयाप्येवं सर्वथा नोपपद्यते / यद्धेतुहेतुमद्भावस्तदेषाप्युक्तिमात्रकम् 161 // 81 // // 82 // // 83 // // 84 // // 85 // // 86 //