________________ // 63 // // 64 // // 65 // // 66 // // 67 // // 68 // वस्तुनोऽनन्तरं सत्ता तत्तथा तां विना भवेत् / / नभ:पातादसत्सत्त्वयोगाद्वेति न तत्फलम् असदुत्पत्तिरप्येवं नास्यैव प्रागसत्त्वतः / किं त्वसत्सद्भवत्येवमिति सम्यग्विचार्यताम् एतच्च नोक्तवद्युक्त्या सर्वथा युज्यते यतः / . नाभावो भावतां याति व्यवस्थितमिदं ततः यापि रूपादिसामग्री विशिष्टप्रत्ययोद्भवा / जनकत्वेन बुद्ध्यादेः कल्प्यते साप्यर्थिका .. सर्वेषां बुद्धिजनने यदि सामर्थ्य मिष्यते / रूपादीनां ततः कार्यभेदस्तेभ्यो न युज्यते रूपालोकादिकं कार्यमनेकं चोपजायते / तेभ्यस्तावद्भय एवेति तदेतच्चिन्त्यतां कथम् प्रभूतानां च नैकत्र साध्वी सामर्थ्यकल्पना / तेषां प्रभूतभावेन तदेकत्वविरोधतः तानशेषान् प्रतीत्येह भवदेकं कथं भवेत् / एकस्वभावमेकं यत्तत्तु नानेकभावतः यतो भिन्नस्वभावत्वे सति तेषामनेकता / तावत्सामर्थ्यजत्वे च कुतस्तस्यैकरूपता यज्जायते प्रतीत्यैकसामर्थ्य नान्यतो हि तत् / तयोरभिन्नतापत्तेर्भेदे भेदस्तयोरपि न प्रतीत्यैकसामर्थ्य जायते तत्र किंचन / सर्वसामर्थ्यभूतिस्वभावत्वात्तस्य चेन्न तत् प्रत्येकं तस्य तद्भावे युक्ता ह्युक्तस्वभावता। न हि यत्सर्वसामर्थ्यं तत्प्रत्येकत्ववर्जितम् / 160 // 69 // // 70 // // 71 // // 72 // // 73 // // 74 //