________________ // 51 // // 52 // // 53 // // 54 // // 55 // // 56 // न धर्मी कल्पितो धर्मधर्मभावस्तु कल्पितः / पूर्वो हेतुर्निरंशः स उत्तरः फलमुच्यते पूर्वस्यैव तथाभावाभावे हन्तोत्तरं कुतः / तस्यैव तु तथाभावेऽसतः सत्त्वमदो न सत् तं प्रतीत्य तदुत्पाद इति तुच्छमिदं वचः / अतिप्रसङ्गतश्चैव तथा चाह महामतिः सर्वथैव तथाभाविवस्तुभावादृते न यत् / कारणानन्तरं कार्यं द्राग्नभस्तस्ततो न तत् तस्यैव तत्स्वभावत्वकल्पनासंपदप्यलम् / न युक्ता युक्तिवैकल्यराहुणा जन्मपीडनात् तदनन्तरभावित्वमात्रतस्तद्व्यवस्थितौ / . विश्वस्य विश्वकार्यत्वं स्यात्तद्भावाविशेषतः अभिन्नदेशनादीनामसिद्धत्वादनन्वयात् / सर्वेषामविशिष्टत्वान्न तन्नियमहेतुता योऽप्येकस्यान्यतो भावः संताने दृश्यतेऽन्यदा / तत एव विदेशस्थात्सोऽपि यत्तन्न बाधकः एतेनैतत्प्रतिक्षिप्तं यदुक्तं सूक्ष्मबुद्धिना / नासतो भावकर्तृत्वं तदवस्थान्तरं न सः . वस्तुनोऽनन्तरं सत्ता कस्यचिद्या नियोगतः / / सा तत्फलं मता सैव भावोत्पत्तिस्तदात्मिका असदुत्पत्तिरप्यस्य प्रागसत्त्वात्प्रकीर्तिता / नासतः सत्त्वयोगेन कारणात्कार्यभावतः प्रतिक्षिप्तं च तद्धेतोः प्राप्नोति फलतां विना / असतो भावकर्तृत्वं तदवस्थान्तरं च सः 159 // 57 // // 58 // // 59 // // 60 // // 61 // // 62 //