________________ // 39 // // 40 // // 41 // // 42 // . // 43 // - // 44 // असतः सत्त्वयोगे तु तत्तथाशक्तियोगतः / नासत्त्वं तदभावे तु न तत्सत्त्वं तदन्यवत् / असदुत्पद्यते तद्धि विद्यते यस्य कारणम् / विशिष्टशक्तिमत्तच्च ततस्तत्सत्त्वसंस्थितिः अत्यन्तासति सर्वस्मिन् कारणस्य न युक्तितः / विशिष्टशक्तिमत्त्वं हि कल्प्यमानं विराजते तत्सत्त्वसाधकं तन्न तदेव हि तदा न यत् / अत एवेदमित्थं तु न चैतस्येत्ययोमतः वस्तुस्थित्या तथा तद्यत्तदनन्तरभावि तत् / नान्यत्ततश्च नाम्नेह न तथास्ति प्रयोजनम् नाम्ना विनापि तत्त्वेन विशिष्टावधिना विना / चिन्त्यतां यदि सन्न्यायाद्वस्तुस्थित्यापि तत्तथा साधकत्वे तु सर्वस्य ततो भाव: प्रसज्यते / कारणाश्रयणेऽप्येवं न तत्सत्त्वं तदन्यवत् किंच तत्कारणं कार्यभूतिकाले न विद्यते / ततो न जनकं तस्य तदा सत्त्वात्परं यथा अनन्तरं च तद्भावस्तत्त्वादेव निरर्थकः / समं च हेतुफलयो शोत्पादावसंगतौ स्तस्तौ भिन्नावभिन्नौ वा ताभ्यां भेदे तयोः कुतः / नाशोत्पादावभेदे तु तयोर्वै तुल्यकालता न हेतुफलभावश्च तस्यां सत्यां हि युज्यते / तन्निबन्धनभावस्य द्वयोरपि वियोगतः कल्पितश्चेदयं धर्मधर्मभावो हि भावतः / . न हेतुफलभावः स्यात्सर्वथा तदभावतः . // 45 // // 46 // // 47 // // 48 // // 49 // // 50 // 158