________________ // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // तस्यां च नागृहीतायां तत्तथेति विनिश्चयः / न हीन्द्रियमतीतादिग्राहकं सद्भिरिष्यते अन्तेऽपि दर्शनं नास्य कपालादिगतेः क्वचित् / न तदेव घटाभावो भावत्वेन प्रतीतितः न तद्गतेर्गतिस्तस्य प्रतिबन्धविवेकतः / तस्यैवाभवनत्वे तु भावाविच्छेदतोऽन्वयः तस्मादवश्यमेष्टव्यं तदूर्ध्वं तुच्छमेव तत् / ज्ञेयं सज्जायते ह्येतदपरेणापि युक्तिमत् नोत्पत्त्यादेस्तयोरैक्यं तुच्छेतरविशेषतः / निवृत्तिभेदतश्चैव बुद्धिभेदाच्च भाव्यताम् एतेनैतत्प्रतिक्षिप्तं यदुक्तं न्यायमानिना / न तत्र किञ्चिद्भवति न भवत्येव केवलम् भावे ह्येष विकल्पः स्याद्विधेर्वस्त्वनुरोधतः / . न भावो भवतीत्युक्तमभावो भवतीत्यपि . एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः / / संतानास्तित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् प्रतिक्षिप्तं च यत्सत्तानाशित्वागो निवारितम् / तुच्छरूपा सदा सत्ता भावाप्ते शितोदिता भावस्याभवनं यत्तदभावभवनं तु यत् / / तत्तथाधर्मके ह्युक्तविकल्पो न विरुध्यते तदेव न भवत्येतद्विरुद्धमिव लक्ष्यते / तदेव वस्तुसंस्पर्शाद्भवनप्रतिषेधतः सतोऽसत्त्वं यतश्चैवं सर्वथा नोपपद्यते / भावो नाभावमेतीह ततश्चैतद् व्यवस्थितम् 157 // 33 // // 34 // // 35 // // 36 // // 37 // // 38 //