________________ // 15 // // 16 // // 17 // // 18 // // 20 // न तद्भवति चेत्किं न सदासत्त्वं तदेव यत् / न भवत्येतदेवास्य भवनं सूरयो विदुः कादाचित्कमदो यस्मादुत्पादाद्यस्य तद्धृवम् / तुच्छत्वान्नेत्यतुच्छस्याप्यतुच्छत्वात् कथं नु यत् तदाभूतेरियं तुल्या तन्निवृत्तेर्न तस्य किम् / तुच्छताप्तेर्न भावोऽस्तु नासत्सत्सदसत् कथम् स्वहेतोरेव तज्जातं तत्स्वभावं यतो ननु / तदनन्तरभावित्वादितरत्राप्यदः समम् नाहेतोरस्य भवनं न तुच्छे तत्स्वभावता / / ततः कथं नु तद्भाव इति युक्त्या कथं समम् स एव भावस्तद्धेतुस्तस्यैव हि तदा स्थितेः / स्वनिवृत्तिस्वभावोऽस्य भावस्यैव ततो न किम् ज्ञेयत्ववत्स भावोऽपि न चायुक्तोऽस्य तद्विधः / तदभावे न तज्ज्ञानं तन्निवृत्तेर्गतिः कथम् .. तत्तद्विधस्वभावं यत्प्रत्यक्षेण तथैव हि। गृह्यते तद्गतिस्तेन नैतत् क्वचिदनिश्चयात् समारोपादसौ नेति गृहीतं तत्त्वतस्तु तत् / यथाभावग्रहात्तस्यातिप्रसङ्गाददोऽप्यसत् गृहीतं सर्वमेतेन तत्त्वतो निश्चयः पुनः / मितग्रहसमारोपादिति तत्त्वव्यवस्थितेः एकत्र निश्चयोऽन्यत्र निरंशानुभवादपि / न तथापाटवाभावादित्यपूर्वमिदं तमः स्वभावक्षणतो ह्यूज़ तुच्छता तन्निवृत्तितः / नासावेकक्षणग्राहिज्ञानात्सम्यग्विभाव्यते 156 // 21 // // 22 // // 23 // // 24 // . - // 25 // // 26 //