________________ = // 4 // = = // 5 // = // 6 // = // 7 // // 8 // = ज्ञानमात्रं च यल्लोके ज्ञानमेवानुभूयते / नार्थस्तव्यतिरेकेंण ततोऽसौ नैव विद्यते अत्राप्यभिदधत्यन्ये स्मरणादेरसंभवात् / बाह्यार्थवेदनाच्चैव सर्वमेतदपार्थकम् अनुभूतार्थविषयं स्मरणं लौकिकं यतः / कालान्तरे तथाऽनित्ये मुख्यमेतन्न युज्यते सोऽन्तेवासी गुरुः सोऽयं प्रत्यभिज्ञाप्यसंगता / दृष्टकौतुकमुद्वेगः प्रवृत्तिः प्राप्तिरेव च स्वकृतस्योपभोगस्तु दूरोत्सारित एव हि / शीलानुष्ठानहेतुर्यः स नश्यति तदैव यत् संतानापेक्षयास्माकं व्यवहारोऽखिलो मतः / . स चैक एव तस्मिंश्च सति कस्मान्न युज्यते यस्मिन्नेव तु संतान आहिता कर्मवासना / . फलं तत्रैव संधत्ते कसे रक्तता यथा . एतदप्युक्तिमात्रं यन्न हेतुफलभावतः / / संतानोऽन्यः स चायुक्त एवासत्कार्यवादिनः नाभावो भावतां याति शशशृङ्गे तथागतेः / भावो नाभावमेतीह तदुत्पत्त्यादिदोषतः सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य. यत् / तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः / स क्षणस्थितिधर्मा चेद्वितीयादिक्षणास्थितौ / युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः क्षणस्थितौ तदैवास्य नास्थितियुक्त्यसंगतेः / न पश्चादपि सा नेति सतोऽसत्त्वं व्यवस्थितम् . 155 // 9 // = // 10 // // 11 // // 12 // // 13 // // 14 //