________________ // 36 // // 37 // // 38 // // 39 // मोक्षः प्रकृत्ययोगो यदतोऽस्याः स कथं भवेत् / स्वरूपविगमापत्तेस्तथा तन्त्रविरोधतः / पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः / जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः पुरुषस्योदिता मुक्तिरिति तन्त्रे चिरन्तनैः / / इत्थं न घटते चेयमिति सर्वमयुक्तिमत् अत्रापि पुरुषस्यान्ये मुक्तिमिच्छन्ति वादिनः / प्रकृति चापि सन्यायात्कर्मप्रकृतिमेव हि तस्याश्चानेकरूपत्वात् परिणामत्वयोगतः / आत्मनो बन्धनत्वाच्च नोक्तदोषसमुद्भवः नामूर्तं मूर्ततां याति मूर्तं न यात्यमूर्त्तताम् / . यतो बन्धाद्यतो न्यायादात्मनोऽसंगतं तया देहस्पर्शादिसंवित्त्या न यात्येवेत्ययुक्तिमत् / अन्योन्यव्याप्तिजा चेयमिति बन्धादिसंगतम् मूर्तयाप्यात्मनो योगो घटेन नभसो यथा / उपघातादिभावश्च ज्ञानस्येव सुरादिना एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि / ' कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः / // 40 // // 41 // // 42 // // 43 // // 44 // चतुर्थः स्तबकः मन्यन्तेऽन्ये जगत्सर्वं क्लेशकर्मनिबन्धनम् / क्षणक्षयि महाप्राज्ञा ज्ञानमात्रं तथापरे तयाहुः क्षणिकं सर्वं नाशहेतोरयोगतः / . . अर्थक्रियासमर्थत्वात् परिणामात् क्षयेक्षणात् . 154