________________ . // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // नानुपादानमन्यस्य भावेऽन्यज्जातुचिद्भवेत् / / तदुपादानतायां च न तस्यैकान्तनित्यता घटाद्यपि कुलालादिसापेक्षं दृश्यते भवत् / अतो न तत्पृथिव्यादिपरिणामैकहेतुकम् तत्रापि देहः कर्ता चेन्नैवासावात्मनः पृथक् / पृथगेवेति चेद्भोग आत्मनो युज्यते कथक् देहभोगेन नैवास्य भावतो भोग इष्यते / प्रतिबिम्बोदयात् किं तु यथोक्तं पूर्वसूरिभिः पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् / मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते / प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि प्रतिबिम्बोदयोऽप्यस्य नामूर्तत्वेन युज्यते / . मुक्तेरतिप्रसंगाच्च न वै भोगः कदाचन न च पूर्वस्वभावत्वात्स मुक्तानामसंगतः / स्वभावान्तरभावे च परिणामोऽनिवारितः देहात्पृथक्त्व एवास्य न च हिंसादयः क्वचित् / तदभावेऽनिमित्तत्वात्कथं बन्धः शुभाशुभ: बन्धादृते न संसारो मुक्तिर्वास्योपपद्यते / , यमादि तदभावे च सर्वमेव ह्यपार्थकम् आत्मा न बध्यते नापि मुच्यतेऽसौ कदाचन / बध्यते मुच्यते वापि प्रकृतिः स्वात्मनेति चेत् एकान्तेनैकरूपाया नित्यायाश्च न सर्वथा / तस्याः क्रियान्तराभावाद्बन्धमोक्षौ सुयुक्तितः 153 // 30 // // 31 // // 32 // // 33 // // 34 // // 35 //