________________ // 14 // तदनासेवनादेव यत्संसारोऽपि तत्त्वतः / तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति // 12 // कर्तायमिति तद्वाक्ये यत: केषाञ्चिंदादरः / अतस्तदानुगुण्येन तस्य कर्तृत्वदेशना .. // 13 // परमैश्वर्ययुक्तत्वान्मत आत्मैव चेश्वरः / स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः शास्त्रकारा महात्मानः प्रायो वीतस्पृहा भवे / सत्त्वार्थसंप्रवृत्ताश्च कथं तेऽयुक्तभाषिणः // 15 // अभिप्रायस्ततस्तेषां सम्यग्मृग्यो हितैषिणा / न्यायशास्त्राविरोधेन यथाह मनुरप्यदः // 16 // आर्षं च धर्मशास्त्रं च वेदशास्त्रविरोधिना / यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः // 17 // प्रधानोद्भवमन्ये तु मन्यन्ते सर्वमेव हि / महदादिक्रमेणेह कार्यजातं विपश्चितः // 18 // प्रधानान्महतो भावोऽहङ्कारस्य ततोऽपि च / अक्षतन्मात्रवर्गस्य तन्मात्राद्भूतसंहतेः // 19 // घटाद्यपि पृथिव्यादिपरिणामसमुद्भवम् / / नात्मव्यापारजं किञ्चित्तेषां लोकेऽपि विद्यते // 20 // अन्ये तु ब्रुवते ह्येतत्प्रक्रिमात्रवर्णनम् / अविचार्यैव तद्युक्त्या श्रद्धया गम्यते परम् // 21 // युक्त्या तु बाध्यते यस्मात्प्रधानं नित्यमिष्यते / तथात्वाप्रच्युतौ चास्य महदादि कथं भवेत् // 22 // तस्यैव तत्स्वभावत्वादिति चेत्किं न सर्वदा। .. अत एवेति चेत्तस्य तथात्वे ननु तत्कुतः // 23 // डते. ૧૫ર