________________ // 1 // // 2 // = // 4 = // 5 // = .. तृतीयः स्तबकः ईश्वरः प्रेरकत्वेन कर्ता कैश्चिदिहेष्यते / अचिन्त्यचिच्छक्तियुक्तोऽनादिशुद्धश्च सूरिभिः ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः / ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा अन्ये त्वभिदधत्यत्र वीतरागस्य भावतः / इत्थं प्रयोजनाभावात्कर्तृत्वं युज्यते कथम् नरकादिफले कांश्चित्कांश्चित्स्वर्गादिसाधने / कर्मणि प्रेरयत्याशु स जन्तून् केन हेतुना स्वयमेव प्रवर्तन्ते सत्त्वाश्चेच्चित्रकर्मणि / निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् फलं ददाति चेत्सर्वं तत्तेनेह प्रचोदितम् / अफले पूर्वदोषः स्यात्सफले भक्तिमात्रता आदिसर्गेऽपि नो हेतुः कृतकृत्यस्य विद्यते / प्रतिज्ञातविरोधित्वात् स्वभावोऽप्यप्रमाणक: कर्मादेस्तत्स्वभावत्वे न किंचिद्बाध्यते विभोः / विभोस्तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् ततश्चेश्वरकर्तृत्ववादोऽयं युज्यते परम् / सम्यग्न्यायाविरोधेन यथाहुः शुद्धबुद्धयः ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् / यतो मुक्तिस्ततस्तस्याः कर्ता स्याद् गुणभावतः = // 7 // // 8 // = // 9 // // 10 // // 11 // 151