________________ न च तन्मात्रभावादेर्युज्यतेऽस्या विचित्रता / तदन्यभेदकं मुक्त्वा सम्यग्न्यायाविरोधतः // 70 // न जलस्यैकरूपस्य वियत्पाताद्विचित्रता / ऊषरादिधराभेदमन्तरेणोपजायते // 71 // तद्भिन्नभेदकत्वे च तत्र तस्या न कर्तृता / तत्कर्तृत्वे च चित्रत्वं तद्वत्तस्याप्यसंगतम् // 72 // तस्या एव तथाभूतः स्वभावो यदि वेष्यते / त्यक्तो नियतिवादः स्यात्स्वभावाश्रयणान्ननु . // 73 // स्वो भावश्च स्वभावोऽपि स्वसत्तैव हि भावतः / .. . तस्यापि भेदकाभावे वैचित्र्यं नोपपद्यते // 74 // ततस्तस्याविशिष्टत्वाद्युगपद्विश्वसंभवः / न चासाविति सद्युक्त्या तद्वादोऽपि न संगतः // 75 // तत्तत्कालादिसोपेक्षो विश्वहेतुः स चेन्ननु / मुक्तः स्वभाववादः स्यात् कालवादपरिग्रहात् .. / / 76 // कालोऽपि समयादिर्यत्केवलः सोऽपि कारणम् / तत एव ह्यसंभूतेः कस्यचिन्नोपपद्यते // 77 // यतश्च काले तुल्येऽपि सर्वत्रैव न तत्फलम् / अतो हेत्वन्तरापेक्षं विज्ञेयं तद्विचक्षणैः // 78 // अतः कालादयः सर्वे समुदायेन कारणम् / गर्भादेः कार्यजातस्य विज्ञेया न्यायवादिभिः // 79 // न चैकैकत एवेह क्वचित् किञ्चिदपीक्ष्यते / तस्मात्सर्वस्य कार्यस्य सामग्री जनिका मता . // 80 // स्वभावो नियतिश्चैव कर्मणोऽन्ये प्रचक्षते / ' धर्मावन्ये तु सर्वस्य सामान्येनैव वस्तुनः // 81 // 150