________________ // 58 // // 59 // // 60 // // 61 // // 62 // = // 63 // = सर्वे भावाः स्वभावेन स्वस्वभावे तथा तथा / वर्तन्तेऽथ निवर्तन्ते कामचारपराङ्मुखाः न विनेह स्वभावेन मुद्गपक्तिरपीष्यते / तथा कालादिभावेऽपि नाश्वमाषस्य सा यतः अतत्स्वभावात्तद्भावेऽतिप्रसङ्गोऽनिवारितः / तुल्ये तत्र मृदः कुम्भो न पाटादीत्ययुक्तिमत् नियतेनैव रूपेण सर्वे भावा भवन्ति यत् / ततो नियतिजा ह्येते तत्स्वरूपानुवेधतः यद्यदैव यतो यावत्तत्तदैव ततस्तथा / नियतं जायते न्यायात् क एतां बाधितुं क्षमः न चर्ते नियति लोके मुद्गपक्तिरपीक्ष्यते / . तत्स्वभावादिभावेऽपि नासावनियता यतः अन्यथानियतत्वेन सर्वभाव: प्रसज्यते / अन्योन्यात्मकतापत्तेः क्रियावैफल्यमेव च . न भोक्तव्यतिरेकेण भोग्यं जगति विद्यते / न चाकृतस्य भोक्ता स्यान्मुक्तानां भोगभावतः भोग्यं च विश्वं सत्त्वानां विधिना तेन तेन यत् / दृश्यतेऽध्यक्षमेवेदं तस्मात्तत्कर्मजं हि तत् . न च तत्कर्मवैधुर्ये मुद्गपक्तिरपीक्ष्यते / . स्थाल्यादिभङ्गभावेन यत्क्वचिन्नोपपद्यते चित्रं भोग्यं तथा चित्रात्कर्मणो हेतुतान्यथा / तस्य यस्माद्विचित्रत्वं नियत्यादेर्न युज्यते नियतेनियतात्मत्वान्नियतानां समानता / तथाऽनियतभावे च बलात्स्यात्तद्विचित्रता // 64 // = // 65 // = // 66 // = // 67 // // 68 // ____= // 69 // 149