________________ // 46 // न हिंस्यादिह भूतानि हिंसनं दोषकृन्मतम् / / दाहवद्वैद्यके स्पष्टमुत्सर्गप्रतिषेधतः / ततो व्याधिनिवृत्त्यर्थं दाहः कार्यस्तु चोदिते / न ततोऽपि न दोषः स्यात्फलोद्देशेन चोदनात् ... // 47 // एवं तत्फलभावेऽपि चोदनातोऽपि सर्वथा / ध्रुवमौत्सर्गिको दोषो जायते फलचोदनात् // 48 // अन्येषामपि बुद्ध्यैवं दृष्टेष्टाभ्यां विरुद्धता / दर्शनीया कुशास्त्राणां ततश्च स्थितमित्यदः // 49 // क्लिष्टं हिंसाधनुष्टानं न यत्तस्यान्यतो मतम् / ततः कर्ता स एव स्यात्सर्वस्यैव हि कर्मणः // 50 // अनादिकर्मयुक्तत्वात्तन्मोहात्संप्रवर्तते / अहितेऽप्यात्मनः प्रायो व्याधिपीडितचित्तबत् . // 51 // कालादीनां च कर्तृत्वं मन्यन्तेऽन्ये प्रवादिनः / केवलानां तदन्ये तु मिथः सामग्र्यपेक्षया न कालव्यतिरेकेण गर्भकालशुभादिकम् / यत्किञ्चिज्जायते लोके तदसौ कारणं किल // 53 // काल: पचति भूतानि कालः संहरति प्रजाः / ' कालः सुप्तेषु जागर्ति कालो हि दुरतिकमः // 54 // किञ्च कालादृते नैव मुद्गपक्तिरपीष्यते / स्थाल्यादिसन्निधानेऽपि ततः कालादसौ मता // 55 // कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया / परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् // 56 // न स्वभावातिरेकेण गर्भबालशुभादिकम् / * यत्किञ्चिज्जायते लोके तदसौ कारणं किल . // 57 // 148