________________ // 34 // // 35 // // 36 // // 37 // // 38 // // 39 // अप्रवृत्त्यैव सर्वत्र यथासामर्थ्यभावतः / विशुद्धभावनाभ्यांसात् तन्माध्यस्थ्यं परं यतः यावदेवंविधं नैतत्प्रवृत्तिस्तावदेव या / साऽविशेषेण साध्वीति तस्योत्कर्षप्रसाधनात् नाप्रवृत्तेरियं हेतुः कुतश्चिदनिवर्तनात् / सर्वत्र भावाविच्छेदादन्यथागम्यसंस्थितिः तच्चास्तु लोकशास्त्रोक्तं तत्रौदासीन्ययोगतः / संभाव्यते परं ह्येतद्भावशुद्धर्महात्मनाम् संसारमोचकस्यापि हिंसा यद्धर्मसाधनम् / मुक्तिश्चास्ति ततस्तस्याप्येष दोषोऽनिवारितः मुक्तिः कर्मक्षयादेव जायते नान्यतः क्वचित् / . जन्मादिरहिता यत्तत्स एवात्र निरूप्यते हिंसाधुत्कर्षसाध्यो वा तद्विपर्ययजोऽपि वा / .. अन्यहेतुरहेतुर्वा स वै कर्मक्षयो ननु . हिंसाधुत्कर्षसाध्यत्वे तदभावे न तत्स्थितिः / कर्मक्षयास्थितौ च स्यान्मुक्तानां मुक्तताक्षतिः तद्विपर्ययसाध्यत्वे परसिद्धान्तसंस्थितिः / कर्मक्षयः सतां यस्मादहिंसादिप्रसाधनः / तदन्यहेतुसाध्यत्वे तत्स्वरूपमसंस्थितम् / .. अहेतुत्वे सदा भावोऽभावो वा स्यात्सदैव हि मुक्तिः कर्मक्षयादिष्टा ज्ञानयोगफलं स च / अहिंसादि च तद्धेतुरिति न्यायः सतां मतः एवं वेदविहितापि हिंसा पापाय तत्त्वतः / शास्त्रचोदितभावेऽपि वचनान्तरबाधनात् // 40 // // 41 // // 42 // // 43 // // 44 // // 45 // 149.