________________ // 22 // // 23 // // 24 // ... // 25 // // 26 // - // 27 // अन्ये पुनरिदं श्राद्धा ब्रुवत आगमेन वै / / शुभादेरेव सौख्यादि गम्यते नान्यतः क्वचित् अतीन्द्रियेषु भावेषु प्राय एवंविधेषु यत् / छास्थस्याविसंवादि मानमन्यन्न विद्यते यच्चोक्तं दुःखबाहुल्यदर्शनं तन्न साधकम् / क्वचित्तथोपलम्भेऽपि सर्वत्रादर्शनादिति .. सर्वत्र दर्शनं यस्य तद्वाक्यात्किं न साधनम् / साधनं तद्भवत्येवमागमात्तु न भिद्यते अशुभादप्यनुष्ठानात् सौख्यप्राप्तिश्च या क्वचित् / फलं विपाकविरसा सा तथाविधकर्मणः ब्रह्महत्यानिदेशानुष्ठानाद्ग्रामादिलाभवत् / न पुनस्तत एवैतदागमादेव गम्यते' प्रतिपक्षागमानां च दृष्टेष्टाभ्यां विरोधतः / / तथानाप्तप्रणीतृत्वादागमत्वं न युज्यते दृष्टेष्टाभ्यां विरोधाच्च तेषां नाप्तप्रणीतता / नियमाद् गम्यते यस्मात्तदसावेव दृश्यते अगम्यगमनादीनां धर्मसाधनता क्वचित् / उक्ता लोकप्रसिद्धेन प्रत्यक्षेण विरुध्यते स्वधर्मोत्कर्षादेव तथा मुक्तिरपीष्यते / हेत्वभावेन तद्भावो नित्य इष्टेन बाध्यते माध्यस्थ्यमेव तद्धेतुरगम्यगमनादिना / साध्यते तत्परं येन तेन दोषो न कश्चन एतदप्युक्तिमात्रं यदगम्यगमनादिषु / . तथाप्रवृत्तितो युक्त्या माध्यस्थ्यं नोपपद्यते . // 28 // // 29 // // 30 // // 31 // // 32 // . . // 33 // 141