________________ // 111 // इन्द्रप्रतारणायेदं चक्रे किल बृहस्पतिः / . अदोऽपि युक्तिशून्यं यन्नेत्थमिन्द्रः प्रतार्यते तस्माद्दष्टाशयकरं क्लिष्टसत्त्वविचिन्तितम् / पापश्रुतं सदा धीरैर्वयं नास्तिकदर्शनम् // 112 // // 1 // // 2 // - // 3 // // 4 // द्वितीयः स्तबकः हिंसादिभ्योऽशुभं कर्म तदन्येभ्यश्च तच्छुभम् / जायते नियमो मानात्कुतोऽयमिति चापरे आगमाख्यात्तदन्ये तु तच्च दृष्टाद्यबाधितम् / सर्वाविषयं नित्यं व्यक्तार्थं परमात्मना चन्द्रसूर्योपरागादेस्ततः संवाददर्शनात् / अप्रत्यक्षेऽपि पापादौ न प्रामाण्यं न युज्यते यदि नाम क्वचिदृष्टः संवादोऽन्यत्र वस्तुनि / तद्भावस्तस्य तत्त्वं वा कथं समवसीयते आगमैकत्वतस्तच्च वाक्यादेस्तुल्यतादिना / सुवृद्धसंप्रदायेन तथा पापक्षयेण च अन्यथा वस्तुतत्त्वस्य परीक्षैव न युज्यते / आशङ्का सर्वगा यस्माच्छद्मस्थस्योपजायते अपरीक्षापि नो युक्ता गुणदोषाविवेकतः / महत् संकटमायातमाशङ्के न्यायवादिनः तस्माद्यथोदितात्सम्यगागमाख्यात्प्रमाणतः / हिंसादिभ्योशुभादीनि नियमोऽयं व्यवस्थितः क्लिष्टाद्धिसाधनुष्टानात्प्राप्ति: क्लिष्टस्य कर्मणः / यथापथ्यभुजो व्याधेरक्लिष्टस्य विपर्ययात् 144 // 5 // // 7 // // 8 // // 9 //