________________ // 99 // // 100 // // 101 // // 102 // // 103 // // 104 // अस्त्येव सा सदा किं तु क्रियया व्यज्यते परम् / आत्ममात्रस्थिताया न तस्या व्यक्तिः कदाचन तदन्यावरणाभावाद्भावे वास्यैव कर्मता / तन्निराकरणाद्व्यक्तिरिति तद्भेदसंस्थितिः पापं तद्भिन्नमेवास्तु क्रियान्तरनिबन्धनम् / एवमिष्टक्रियाजन्यं पुण्यं किमिति नेष्यते वासनाप्यन्यसंबन्धं विना नैवोपपद्यते / पुष्पादिगन्धवैकल्ये तिलादौ नेक्ष्यते यतः बोधमात्रातिरिक्तं तद्वासकं किञ्चिदिष्यताम् / मुख्यं तदेव वः कर्म न युक्ता वासनान्यथा बोधमात्रस्य तद्भावे नास्ति ज्ञानमवासितम् / ततो मुक्तिः सदैव स्याद्वैशिष्ट्यं केवलस्य न एवं शक्त्यादिपक्षोऽयं घटते नोपपत्तितः। . बन्ध्यान्न्यूनातिरिक्तत्वे तद्भावानुपपत्तितः . तस्मात्तदात्मनो भिन्नं सच्चित्रं चात्मयोगि च / अदृष्टमवगन्तव्यं तस्य शक्त्यादिसाधकम् अदृष्टं कर्म संस्काराः पुण्यापुण्ये शुभाशुभौ / धर्माधर्मों तथा पाशः पर्यायास्तस्य कीर्तिताः / हेतवोऽस्य समाख्याताः पूर्वं हिंसानृतादयः / तद्वान् संयुज्यतेऽनेन विचित्रफलदायिना नैवं दृष्टेष्टबाधा यत्सिद्धिश्चास्यानिवारिता / तदेनमेव विद्वांसस्तत्त्ववादं प्रचक्षते लोकायतमतं प्राज्ञैर्तेयं पापौघकारणम् / इत्थं तत्त्वविलोमं यत्तन्न ज्ञानविवर्धनम् 143 // 105 // // 106 // // 107 // // 108 // // 109 // // 110 //