________________ // 87 // // 88 // // 89 // // 90 // // 91 // // 92 // अतः प्रत्यक्षसंसिद्धः सर्वप्राणभृतामयम् / / स्वयंज्योतिः सदैवात्मा तथा वेदेऽपि पठ्यते अत्रापि वर्णयन्त्येके सौगताः कृतबुद्धयः / क्लिष्टं मनोऽस्ति यन्नित्यं तद्यथोक्तात्मलक्षणम् यदि नित्यं तदात्मैव संज्ञाभेदोऽत्र केवलम् / अथानित्यं ततश्चेदं न यथोक्तात्मलक्षणम् . यः कर्ता कर्मभेदानो भोक्ता कर्मफलस्य च / संसर्ता परिनिर्वाता स ह्यात्मा नान्यलक्षणः आत्मत्वेनाविशिष्टस्य वैचित्र्यं तस्य यद्वशात् / नरादिरूपं तच्चित्रमदृष्टं कर्मसंज्ञितम् तथा तुल्येऽपि चारम्भे सदुपायेऽपि यो नृणाम् / फलभेदः स युक्तो न युक्त्या हेत्वन्तरं विना तस्मादवश्यमेष्टव्यमत्र हेत्वन्तरं परैः / / तदेवादृष्टमित्याहुरन्ये शास्त्रकृतश्रमाः भूतानां तत्स्वभावत्वादयमित्यप्यनुत्तरम् / / न भूतात्मक एवात्मेत्येतदत्र निदर्शितम् / कर्मणो भौतिकत्वेन यद्वैतदपि साम्प्रतम् / आत्मनो व्यतिरिक्तं तच्चित्रभावं यतो मतम् शक्तिरूपं तदन्ये तु सूरयः संप्रचक्षते / अन्ये तु वासनारूपं विचित्रफलदं तथा अन्ये त्वभिदधत्यत्र स्वरूपनियतस्य वै / कर्तुविनान्यसंबन्धं शक्तिराकस्मिकी कुतः तक्रियायोगतः सा चेत्तदपुष्टौ न युज्यते / तदन्ययोगाभावे च पुष्टिरस्य कथं भवेत् 142 // 93 // // 94 // // 95 // // 96 // // 97 // // 98 //