________________ // 75 // // 76 // // 77 // // 78 // // 79 // // 80 // न तथा भाविनं हेतुमन्तरेणोपजायते / किञ्चिन्नश्यति चैकान्ताद्यथाह व्यासमहर्षिः नासतो विद्यते भावो नाभावो विद्यते सतः / उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः नाभावो भावमाप्नोति शशशृङ्गे तथागतेः / भावो नाभावमेतीहं दीपश्चेन्न स सर्वथा एवं चैतन्यवानात्मा सिद्धः सततभावतः / परलोक्यपि विज्ञेयो युक्तिमार्गानुसारिभिः सतोऽस्य किं घटस्येव प्रत्यक्षेण न दर्शनम् / अस्त्येव दर्शनं स्पष्टमहंप्रत्ययवेदनात् भ्रान्तोऽहं गुरुरित्येष सत्यमन्यस्त्वसौ मतः / व्यभिचारित्वतो नास्य गमकत्वमथोच्यते प्रत्यक्षस्यापि तत्त्याज्यं तत्सद्भावाविशेषतः / . प्रत्यक्षाभासमन्यच्चेद्व्यभिचारि न साधु तत् . अहंप्रत्ययपक्षेऽपि ननु सर्वमिदं समम् / / अतस्तद्वदसौ मुख्यः सम्यक् प्रत्यक्षमिष्यताम् गुर्वी मे तनुरित्यादौ भेदप्रत्ययदर्शनात् / . भ्रान्तताभिमतस्यैव सा युक्ता नेतरस्य तु. आत्मनात्मग्रहोऽप्यत्र तथानुभवसिद्धितः / तस्यैव तत्स्वभावत्वान्न तु युक्त्या न युज्यते न च बुद्धिविशेषोऽयमहङ्कारः प्रकल्प्यते / दानादिबुद्धिकालेऽपि तथाहंकारवेदनात् आत्मनात्मग्रहे तस्य तत्स्वभावत्वयोगतः / सदैवाग्रहणं ह्येवं विज्ञेयं कर्मदोषतः 141 // 81 // // 82 // // 83 // // 84 // // 85 // // 86 //